पुष्पांजलि स्तोत्रम

कर्पूर गौरं करुणावतारं संसार सारं भुजगेन्द्रहारम् ,
सदा बसन्तं हृदयार विन्दे भवं भवानी सहितं नमामि।।

शान्ताकारं भुजगशयनं, पद्मनाभं सुरेशं,
विश्वाधारं गगन सदृशं, मेघवर्ण शुभांगम।।

लक्ष्मी कान्तं कमलनयनं, योगिभिर्ध्यान गम्यं,
वन्दे विष्णुं भवभय हरं, सर्वलोकैक नाथम्।।

वन्दे देवमुमापतिं सुर गुरुं, वन्दे जगत कारणम् ,
वन्दे पन्नगभूषणं मृगधरं, वन्दे पशूनांपतिम्।।

वन्दे सूर्य शशांक वह्नि नयनं, वन्दे मुकुन्दप्रियम् ,
वन्दे भक्त जनाश्रयं च वरदं, वन्दे शिवं शंकरम्।।

अश्वत्थः सर्ववृक्षाणां देवर्षिणाम च नारदः,
गन्धर्वानाम चित्ररथः सिद्धनाम कपिलो मुनिः।।

सर्व मंगल मांगल्ये शिवे सर्वार्थ साधिके,
शरण्ये त्र्यम्बके गौरि नारायणि नमोSस्तुते ।।

गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः,
गुरुः साक्षात् परं ब्रह्म तस्मै श्री गुरवे नमः।।

अखण्ड मण्डलाकारं व्याप्तं येन चरा चरम्,
तत्पदम् दर्शितं येन तस्मै श्री गुरवे नमः।।

नमस्ते भगवते भृगुदेवाय बेधसे,
देव देव नमोस्तुते भूत भावन पूर्वजः।।

नमो ब्रह्म ब्रह्मण्यदेवाय गोब्राह्मण हिताय च,
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः।।

त्वमेव माता च पिता त्वमेव,
त्वमेव बन्धुश्च सखा त्वमेव।।

त्वमेव विद्या द्रविणं त्वमेव,
त्वमेव सर्व मम देव देव।।

पापोहं पाप कर्माहं पापात्मा पापसम्भवः,
त्राहिमां पुण्डरीकाक्ष सर्वपापहरो भव।।