भृगु स्तोत्रम्

भृगु स्तोत्रम्

आदि देव! नमस्तुभ्यं प्रसीदमे श्रेयस्कर। पुरुषाय नमस्तुभ्यं शुभ्रकेशाय ते नमः॥

तत्व रथमारूढं ब्रह्म पुत्रं तपोनिधिम्। दीर्घकूर्चं विशालाक्षं तं भृगुं प्रणमाम्यहम्॥

योगिध्येयं योगरूढं सर्वलोकपितामहम्। त्रितापपाप हन्तारं तं भृगुं प्रणमाम्यहम्॥

सर्वगुणं महाधीरं ब्रह्मविष्णु महेश्र्वरम्। सर्वलोक भयहरं तं भृगुं प्रणमाम्यहम्॥

तेजः पुञ्जं महाकारं गाम्भीर्ये च महोदधिम्। नारायणं च लोकेशं तं भृगुं प्रणमाम्यहम्॥

रुद्राक्षमालयोपेतं श्र्वेतवस्त्र विभूषितम्। वर मुद्रा धरं शान्तं तं भृगुं प्रणमाम्यहम्॥

सृष्टि संहार कर्त्तारं जगतां पालने रतम्। महा भय हरं देवं तं भृगुं प्रणमाम्यहम्॥

बीजं च सर्वविद्यानां ज्ञानागम्याज्ञ ज्ञानदं भक्तानांभयहर्तारम् तं भृगुं प्रणमाम्यहम्॥

भक्तेभ्यो भक्तिदात्तारं ज्ञान मोक्ष प्रदायकम् प्राणेश्वरं महानन्दं तं भृगुं प्रणमाम्यहम्॥

अशेष दोषनाशनं तत्वज्ञानप्रकाशकम्। ज्योतिष्प्रदं स्वरूपस्थं तं भृगुं प्रणमाम्यहम्॥

हरि प्रियामद हरं भक्त मानस शोधनम्। रूद्रभ्रातरं शुभदं तं भृगुं प्रणमाम्यहम्॥

सर्व मानस भावज्ञं कल्याणपथ दर्शकम्। सर्वकर्म विपाकज्ञं तं भृगुं प्रणमाम्यहम्॥

भृगुस्तोत्रं पठेन्नित्यं भक्तिमान धीरमानासः। शुभं सर्वमवाप्नोति कीर्तिमाप्तो न संशयः॥

॥ ॐ श्री भृगवे नमः ॥