ॐ ॐ ॐ
श्री गणेशाय नमः
श्री गुरुवे नमः
गुरू ब्रह्मा गुरु विष्णुः गुरू र्देवो महेश्वरः । गुरु साक्षात् परब्रह्म तस्मै श्री गुरुवे नमः ।।
अखण्डमण्डलाकारं व्याप्तं येन चराचरम् । तत्पदं दर्शितं येन तस्मै श्री गुरुवे नमः ॥
नमस्ते भगवते भृगुदेवाय वेधसे । देव देव नमस्तुते भूत भावन पूर्वजः ॥
यस्यांके च विभाति भूधरसुता देवापगा मस्तके भाले बालविधुर्गले च गरलं यस्योरसि व्यालराट ।
सोऽयं भूतिविभूषणः सुरवर: सर्वाधिपः सर्वदा शर्व सर्वगतः शिवः शशिनिभ: श्रीशंकरः पातु माम् ।।
प्रसन्नतां या न गताभिषेकतस्तथा न मम्ले वनवासदुःखतः मुखाम्बुजश्री रघुनन्दनस्य मे सदास्तु सा मंञ्जुलमंगलप्रदा।।
नीलाम्बुजश्यामलकोमलाङ्गं सीतासमारोपितवामभागम् पाणौ महासायकचारूचापं नमामि रामं रघुवंशनाथम् ।।
अतुलितबलधामं हेमशैलाभदेहं, दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् | सकलगुणनिधानं वानराणामधीशं, रघुपतिप्रियभक्तं वातजातं नमामि ।।