श्री महालक्ष्म्यष्टकम्

इन्द्र उवाच

नमस्तेऽस्तु महामाये श्री पीठे सुरपूजिते । शंङ्ग चक्र गदाहस्ते महालक्ष्मि नमोऽस्तुते ॥१॥

नमस्ते गरुडारूढे कोलासुरभ्यङ्करि । सर्वपाप हरे देवि महालक्ष्मि नमोऽस्तुते ॥२॥

सर्वज्ञे सर्ववरदे सर्वदुष्ट भयङ्करि । सर्वदुःख हरे देवि महालक्ष्मि नमोऽस्तुते ॥३॥

सिद्धि बुद्धि प्रदे देवि भुक्ति मुक्ति प्रदायिनी । मन्त्रपूते सदा देवि महालक्ष्मि नमोऽस्तुते ॥४॥

आद्यन्तरहिते देवि आद्यशक्ति महेश्वरि । योगजे योगसम्भूते महालक्ष्मि नमोऽस्तुते ।।५।।

स्थूलसूक्ष्ममहारौद्रे महाशक्तिमहोदरे । महापापहरे देवि महालक्ष्मि नमोऽस्तुते ॥६॥

पद्मासनस्थिते देवि परब्रह्मस्वरूपिणि । परमेशि जगन्मातर्महालक्ष्मि नमोऽस्तुते ॥७॥

श्वेताम्बर धरे देवि नानालङ्कार भूषिते । जगत्स्थिते जगन्मातर्महालक्ष्मि नमोऽस्तुते ॥८॥

महालक्ष्म्यष्टकं स्तोत्रं यः पठेद्भक्तिमान्नरः । सर्वसिद्धिमवा प्रोति राज्यमाप्रोति सर्वदा ॥ ९॥

एक काले पठेन्नित्यं महापाप विनाशनम् । द्विकालं य: पठेन्नित्यं धनधान्य समन्वितः ॥१०॥

त्रिकालं य: पठेन्नित्यं महाशत्रु विनाशनम् । महालक्ष्मीर्भवेन्नित्यं प्रसन्ना वरदा शुभा ||११||

इतीन्द्र कृतं महालक्ष्म्यष्टकं सम्पूर्णम् ।