श्री नवग्रह स्तोत्रम्

जपा कुसुम संकाशं काश्यपेयं महाद्युतिम् । तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ||१||

दधिशङ्ख तुषाराभं क्षीरोदार्णवसम्भवम् । नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम् ||२||

धरणी गर्भ सम्भूतं विद्युतकान्ति समप्रभम् । कुमारं शक्ति हस्तं तं मगलं प्रणमाम्यहम् ||३||

प्रियंगु कलिकाश्यामं रूपेणाप्रतिमं बुधम् । सौम्यं सौम्यगुणोपेतं तं बुधम् प्रणमाम्यहम् ||४||

देवानाम् च ऋषिणाम् च गुरूं कांचनसन्निभम् बुद्धिभूतं त्रिलोकेशं तं नमामी बृहस्पतिम् ||५||

हिमकुन्द्मृणालाभं दैत्यानां परमं गुरुम् । सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहम् ||६||

नीलांजन समाभासम् रवि पुत्रं यमाग्रजम् । छायामार्तण्डसंभूतं तं नमामी शनैश्चरम् ।।७।।

अर्द्धकायं महावीर्यं चन्द्रादित्य विमर्दनं सिंहिका गर्भ सम्भूतं तं राहुं प्रणमाम्यहम् ।।८।।

पलाश पुष्प संकाशं तारकाग्रहमस्तकम् । रौद्रं रौद्रात्मकं धोरं तं केतुं प्रणमाम्यहम् ।।९।।

इति व्यासमुखोद् गीतं यः पठेत् सुसमाहितः दिवा वा यदि वा रात्रौ विघ्नशान्तिर्भविष्यति ।।१०।

नर नारी नृपाणां च भवेद् दुःस्वप्ननाशनम् । ऐश्वर्यमतुलं तेषामारोग्यं पुष्टिवर्धनम् ।।११।।